पुरा सर्वे सुराश्शक्रमुखा दैत्यपराजिताः । त्यक्त्वामरावतीम्भीत्याऽपलायन्त निजाम्पुरीम् ॥२॥ दैत्यप्रपीडिता देवा जग्मुस्ते कश्यपा न्तिकम् । बद्ध्वा करान्नतस्कन्धा प्रणेमुस्तं सुविह्वलम् ॥३॥ सुनुत्वा तं सुरास्सर्व्वे कृत्वा विज्ञप्तिमादरात् । सर्वं निवेदयामासुस्स्वदुःखन्तत्पराजयम् ॥४॥ ततस्स कश्यपस्तात तत्पिता शिवसक्तधीः । तदाकर्ण्यामराकं वै दुखितोभून्न चाधिकम् ॥५॥ तानाश्वास्य मुनिस्सोऽथ धैर्यमाधाय शान्तधीः । काशीं जगाम सुप्रीत्या विश्वेश्वरपुरीम्मुने ॥६॥ गंगाम्भसि ततः स्नात्वा कृत्वा तं विधिमादरात् । विश्वेश्वरं समानर्च साम्बं सर्वेश्वरम्प्रभुम् ॥७॥ शिवलिंगं सुसंस्थाप्य चकार विपुलन्तपः । शम्भुमुद्दिश्य सुप्रीत्या देवानां हितकाम्यया ॥८॥ महान्कालो व्यतीयाय तपतस्तस्य वै मुनेः । शिवपादाम्बुजासक्तमनसो धैर्य्यशालिनः ॥९॥ अथ प्रादुरभूच्छम्भुर्वरन्दातुन्तदर्षये । स्वपदासक्तमनसे दीनबन्धुस्सतांगतिः ॥१०॥ वरम्ब्रूहीति चोवाच सुप्रसन्नो महेश्वरः । कश्यपं मुनिशार्दूलं स्वभक्तं भक्तवत्सलः ॥११॥ दृष्ट्वाथ तं महेशानं स प्रणम्य कृताञ्जलिः । तुष्टाव कश्यपो हृष्टो देवतातः प्रस न्नधीः ॥१२॥ कश्यप उवाच देवदेव महेशान शरणागतवत्सल । सर्वेश्वरः परात्मा त्वं ध्यानगम्योद्वयोऽव्ययः ॥१३॥ बलनिग्रह कर्ता त्वं महेश्वर सतां गतिः । दीनबन्धुर्दयासिन्धुर्भक्तरक्षणदक्षधीः ॥१४॥ एते सुरास्त्वदीया हि त्वद्भक्ताश्च विशेषतः । दैत्यैः पराजिताश्चाद्य पाहि तान्दुःखितान् प्रभो ॥१५॥ असमर्थो रमेशोपि दुःखदस्ते मुहुर्मुहुः । अतो सुरा मच्छरणा वेदयन्तोऽसुखं च तत् ॥१६॥ तदर्थं देवदेवेश देवदुःखविनाशकः । तत्पूरितुं तपोनिष्ठां प्रसन्नार्थं तवासदम् ॥१७॥ शरणं ते प्रपन्नोऽस्मि सर्वथाहं महेश्वर । कामं मे पूरय स्वामिन्देवदुःखं विनाशय ॥१८॥ पुत्रदुःखैश्च देवेश दुःखितोऽहं विशेषतः । सुखिनं कुरु मामीश सहाय स्त्वन्दिवौकसाम् ॥१९॥ भूत्वा मम सुतो नाथ देवा यक्षाः पराजिताः । दैत्यैर्महाबलैश्शम्भो सुरानन्दप्रदो भव ॥२०॥ सदैवास्तु महेशान सर्वलेखसहायकृत् । यथा दैत्यकृता बाधा न बाधेत सुरान्प्रभो ॥२१॥ नन्दीश्वर उवाच इत्युक्तस्य तु सर्वेशस्तथेति प्रोच्य शंकरः । पश्यतस्तस्य भगवांस्तत्रैवांतर्दधे हरः ॥२२॥ कश्यपोऽपि महाहृष्टः स्वस्थानमगमद्द्रुतम् । देवेभ्यः कथयामास सर्ववृत्तान्तमादरात् ॥२३॥ ततस्स शंकरश्शर्वस्सत्यं कर्तुं स्वकं वचः । सुरभ्यां कश्यपाज्जज्ञे एकादशस्वरूपवान् ॥२४॥ महोत्सवस्तदासीद्वे सर्वं शिवमयं त्वभूत् । आसन्हृष्टाः सुराश्चाथ मुनिना कश्यपेन च ॥२५॥ कपाली पिंगलो भीमो विरूपाक्षो विलोहितः । शास्ताऽजपाद हिर्बुध्न्य श्शंभु श्चण्डो भवस्तथा ॥२६॥ एकादशैते रुद्रास्तु सुरभीतनयाः स्मृताः । देवकार्य्यार्थमुत्पन्नाश्शिवरूपास्सुखास्पदम् ॥२७॥ ते रुद्राः काश्यपा वीरा महाबलपराक्रमाः । दैत्याञ्जघ्नुश्च संग्रामे देवसाहाय्यकारिणः ॥२८॥ तद्रुद्रकृपया देवा दैत्याञ्जित्वा च निर्भयाः । चक्रुस्वराज्यं सर्वे ते शक्राद्यास्स्वस्थमानसाः ॥२९॥ अद्यापि ते महारुद्रास्सर्वे शिवस्वरूपकाः । देवानां रक्षणार्थाय विराजन्ते सदा दिवि ॥३०॥ ऐशान्याम्पुरि ते वासं चक्रिरे भक्तवत्सलाः । विरमन्ते सदा तत्र नानालीलाविशारदाः ॥३१॥ तेषामनुचरा रुद्राः कोटिशः परिकीर्तिताः । सर्वत्र संस्थितास्तत्र त्रिलोकेष्वभिभागशः ॥३२॥ इति ते वर्णितास्तातावताराश्शंकरस्य वै । एकादशमिता रुद्रास्सर्वलोकसुखावहाः ॥३३॥ इदमाख्यानममलं सर्वपापप्रणाशकम् । धन्यं यशस्यमायुष्यं सर्वकामप्रदायकम् ॥३४॥ य इदं शृणुयात्तात श्रावयेद्वै समाहितः । इह सर्वसुखम्भुक्त्वा ततो मुक्तिं लभेत सः ॥३५॥ इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां एकादशावतारवर्णनं नामाष्टादशोऽध्यायः ॥१८॥